|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.277. अध्यायः 277
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति धर्मार्थकामेषु धर्मस्यैव ज्यायस्त्वप्रतिपादककुण्डधारचरित्रप्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-277-0x(6334)(76390)
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत।
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह॥ 12-277-1(76391)
भीष्म उवाच। 12-277-2x(6335)
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्।
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा॥ 12-277-2(76392)
अधनो ब्राह्मणः कश्चित्कामाद्धनमवैक्षत।
यज्ञार्थं सततोऽर्थार्थी तपोऽतप्यत दारुणम्॥ 12-277-3(76393)
स निश्चयमथो कृत्वा पूजयामास देवताः।
भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः॥ 12-277-4(76394)
ततश्चिन्तामनुप्राप्तः कतमद्दैवतं तु तत्।
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम्॥ 12-277-5(76395)
सोऽथ सौम्येन मनसा देवानुचरमन्तिके।
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम्॥ 12-277-6(76396)
दृष्ट्वैव तं महाबाहुं तस्य भक्तिरजायत।
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम्॥ 12-277-7(76397)
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः।
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च॥ 12-277-8(76398)
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि।
बलिभिर्विविधाभिश्च पूजयामास तं द्विजः॥ 12-277-9(76399)
ततस्त्वल्पेन कालेन तुष्टो जलधरस्तदा।
तस्योपकारनियतामिमां वाचमुवाच ह॥ 12-277-10(76400)
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ 12-277-11(76401)
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः।
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजां॥ 12-277-12(76402)
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा।
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा॥ 12-277-13(76403)
शमेन तपसा चैव भक्त्या च निरुपस्कृतः।
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत॥ 12-277-14(76404)
माणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्।
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर॥ 12-277-15(76405)
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च।
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च॥ 12-277-16(76406)
पश्यतामथ यक्षाणं कुण्डधारो महाद्युतिः।
निष्पत्य पतितो भूमौ देवानां भरतर्षभ॥ 12-277-17(76407)
ततस्तु देववचनान्मणिभद्रो महामनाः।
उवाच पतितं भूमौ कुण्डधार किमिच्छसि॥ 12-277-18(76408)
कुण्डधार उवाच। 12-277-19x(6336)
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम।
अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम्॥ 12-277-19(76409)
ततस्तं माणिभद्रस्तु पुनर्वचनमब्रवीत्
देवानामेव वचनात्कुण्डधारं माहद्युतिम्॥ 12-277-20(76410)
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यः सुखी भव।
धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम्॥ 12-277-21(76411)
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सथा तव।
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम्॥ 12-277-22(76412)
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम्।
तपसो मतिमाधत्त ब्राह्मणस्य यशस्विनः॥ 12-277-23(76413)
कुण्डधार उवाच। 12-277-24x(6337)
नाहं धनानि याचामि ब्राह्मणाय धनप्रद।
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम्॥ 12-277-24(76414)
पृथिवीं रत्नपूर्णां वा महद्वा रत्नसंचयम्।
भक्ताय नाहमिच्छमि भवेदेष तु धार्मिकः॥ 12-277-25(76415)
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु।
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः॥ 12-277-26(76416)
माणिभद्र उवाच। 12-277-27x(6338)
सदा धर्मफलं राज्यं सुखानि विविधानि च।
फलान्येवायमश्नातु कायक्लेशविवर्जितः॥ 12-277-27(76417)
भीष्म उवाच। 12-277-28x(6339)
ततस्तदेव बहुशः कुण्डधारो महायशाः।
अभ्यासमकरोद्धर्मे ततस्तुष्टास्तु देवताः॥ 12-277-28(76418)
माणिभद्र उवाच। 12-277-29x(6340)
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च।
भविष्यत्येष धर्मात्मा धर्मे चाधरस्यते मतिः॥ 12-277-29(76419)
भीष्म उवाच। 12-288-30x(6341)
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर।
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम्॥ 12-277-30(76420)
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः।
पार्श्वतोऽभ्याशतो न्यस्तान्यथ निर्वेदमागतः॥ 12-277-31(76421)
ब्राह्मण उवाच। 12-277-32x(6342)
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम्।
गच्छामि वनमेवाहं परं धर्मेण जीवितुम्॥ 12-277-32(76422)
भीष्म उवाच। 12-277-33x(6343)
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः।
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा॥ 12-277-33(76423)
देवतातिथिशेषेण फलमूलाशनो द्विजः।
धर्मे चास्य महाराज दृढा बुद्धिरजायत॥ 12-277-34(76424)
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः।
पर्णं त्यक्त्वा जलाहारः पुनरासीद्द्विजस्तदा॥ 12-277-35(76425)
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत्।
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत्॥ 12-277-36(76426)
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः।
कालेन महता तस्य दिव्या दृष्टिरजायत॥ 12-277-37(76427)
तस्य बुद्धिः प्रादुरासीद्यदि दद्यामहं धनम्।
तुष्टः कस्यचिदेवेह मिथ्या वाङ्ग भवेन्मम॥ 12-277-38(76428)
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः।
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभिमन्यते॥ 12-277-39(76429)
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित्।
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम॥ 12-277-40(76430)
तस्य साक्षात्कुण्डधारो दर्शयामास भारत।
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः॥ 12-277-41(76431)
समागम्य स तेनाथ पूजां चक्रे यथाविधि।
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप॥ 12-277-42(76432)
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम्।
पश्य राज्ञां गतिं विप्र लोकांश्चैव तु चक्षुषा॥ 12-277-43(76433)
ततो राजसहस्राणि मग्नानि निरये तदा।
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा॥ 12-277-44(76434)
कुण्डधार उवाच। 12-277-45x(6344)
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः।
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत्॥ 12-277-45(76435)
पश्यपश्य च भूयस्त्वं कामानिच्छेत्कथं नरः।
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः॥ 12-277-46(76436)
भीष्म उवाच। 12-277-47x(6345)
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम्।
निद्रां तन्द्रीं तथाऽऽलस्यमावृत्त्य पुरुषान्स्थितान्॥' 12-277-47(76437)
कुण्डधार उवाच। 12-277-48x(6346)
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम्।
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः॥ 12-277-48(76438)
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः।
एष शक्तोस्मि तपसा दातुं राज्यं धनानि च॥ 12-277-49(76439)
भीष्म उवाच। 12-277-50x(6347)
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे।
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः॥ 12-277-50(76440)
कामलोभानुबन्धेन पुरा ते यदसूयितम्।
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि॥ 12-277-51(76441)
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम्।
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत॥ 12-277-52(76442)
ततः सर्वांस्तदा लोकान्ब्राह्मणोऽनुचचार ह।
कुण्डधारप्रसादेन तपसा सिद्धिमागतः॥ 12-277-53(76443)
विहायसा च गमनं तथा संकल्पितार्थता।
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः॥ 12-277-54(76444)
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः।
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः॥ 12-277-55(76445)
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः।
धने सुखकला काचिद्धर्मे तु परमं सुखम्॥ ॥ 12-277-56(76446)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकद्विशततमोऽध्यायः॥ 277॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-277-6 जलधरं मेघम्। कुण्डधारं नामतः॥ 12-277-7 धास्यति विघास्यति। तस्य बुद्धिरजायतेति ट. थ. पाठः। दास्यति श्रेय इति ट. थ. ध. पाठः॥ 12-277-10 इमां गाधामगायतेति ध. पाठः॥ 12-277-14 निरुपस्कृतो भोगवर्जितः॥ 12-277-15 व्यादिशन्तं देवाज्ञया याचकेभ्यः फलानि समर्पयन्तम्॥ 12-277-16 अशुभेषु कर्मसूपस्थितेषु प्राग्दत्तमपि राज्यादिकं प्रच्छिन्दन्ति हरन्ति॥ 12-277-17 भूमौ पतितो ब्राह्मणहितार्थी। अग्रतः पतितो भूमाविति ध. पाठः॥ 12-277-18 कुण्डधार किमिष्यत इति झ. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|